rigveda/7/34/24
ऋषिः - वसिष्ठः
देवता - विश्वेदेवा:
छन्दः - निचृदार्षीत्रिष्टुप्
स्वरः - धैवतः
अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒हा॒ता॒म् । अनु॑ । द्यु॒क्षः । वरु॑णः । इन्द्र॑ऽसखा । अनु॑ । विश्वे॑ । म॒रुतः॑ । ये । स॒हासः॑ । रा॒यः । स्या॒म॒ । ध॒रुण॑म् । धि॒यध्यै॑ ॥
अनु । तत् । उर्वी इति । रोदसी इति । जिहाताम् । अनु । द्युक्षः । वरुणः । इन्द्रऽसखा । अनु । विश्वे । मरुतः । ये । सहासः । रायः । स्याम । धरुणम् । धियध्यै ॥