rigveda/7/33/2
ऋषिः - वसिष्ठपुत्राः
देवता - त एव
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् । पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥
दूरात् । इन्द्रम् । अनयन् । आ । सुतेन । तिरः । वैशन्तम् । अति । पान्तम् । उग्रम् । पाशऽद्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान् ॥