rigveda/7/28/4
ऋषिः - वसिष्ठः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्तिः
स्वरः - पञ्चमः
ए॒भिः । नः॒ । इ॒न्द्र॒ । अह॑ऽभिः । द॒श॒स्य॒ । दुः॒ऽमि॒त्रासः॑ । हि । क्षि॒तयः॑ । पव॑न्ते । प्रति॑ । यत् । च॒ष्टे॒ । अनृ॑तम् । अ॒ने॒नाः । अव॑ । द्वि॒ता । वरु॑णः । मा॒यी । नः॒ । सा॒त् ॥
एभिः । नः । इन्द्र । अहऽभिः । दशस्य । दुःऽमित्रासः । हि । क्षितयः । पवन्ते । प्रति । यत् । चष्टे । अनृतम् । अनेनाः । अव । द्विता । वरुणः । मायी । नः । सात् ॥