rigveda/7/25/4
ऋषिः - वसिष्ठः
देवता - इन्द्र:
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
त्वाऽव॑तः । हि । इ॒न्द्र॒ । क्रत्वे॑ । अस्मि॑ । त्वाऽव॑तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ । विश्वा॑ । इत् । अहा॑नि । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । ओकः॑ । कृ॒णु॒ष्व॒ । ह॒रि॒ऽवः॒ । न । म॒र्धीः॒ ॥
त्वाऽवतः । हि । इन्द्र । क्रत्वे । अस्मि । त्वाऽवतः । अवितुः । शूर । रातौ । विश्वा । इत् । अहानि । तविषीऽवः । उग्र । ओकः । कृणुष्व । हरिऽवः । न । मर्धीः ॥