rigveda/7/21/2

प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः। न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥२॥

प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः । नि । ऊँ॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥

ऋषिः - वसिष्ठः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः। न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥२॥

स्वर सहित पद पाठ

प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः । नि । ऊँ॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥


स्वर रहित मन्त्र

प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः। न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥२॥


स्वर रहित पद पाठ

प्र । यन्ति । यज्ञम् । विपयन्ति । बर्हिः । सोमऽमादः । विदथे । दुध्रऽवाचः । नि । ऊँ इति । भ्रियन्ते । यशसः । गृभात् । आ । दूरेऽउपब्दः । वृषणः । नृऽसाचः ॥