rigveda/7/20/8

यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते। व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥८॥

यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ । व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्या॒म॒ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥

ऋषिः - वसिष्ठः

देवता - इन्द्र:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते। व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥८॥

स्वर सहित पद पाठ

यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ । व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्या॒म॒ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥


स्वर रहित मन्त्र

यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते। वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥८॥


स्वर रहित पद पाठ

यः । ते । इन्द्र । प्रियः । जनः । ददाशत् । असत् । निरेके । अद्रिऽवः । सखा । ते । वयम् । ते । अस्याम् । सुऽमतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृऽपीतौ ॥