rigveda/7/20/4

उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वाऽप॑प्राथ॒ तवि॑षीभिस्तुविष्मः। नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥४॥

उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ । नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥

ऋषिः - वसिष्ठः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वाऽप॑प्राथ॒ तवि॑षीभिस्तुविष्मः। नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥४॥

स्वर सहित पद पाठ

उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ । नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥


स्वर रहित मन्त्र

उभे चिदिन्द्र रोदसी महित्वाऽपप्राथ तविषीभिस्तुविष्मः। नि वज्रमिन्द्रो हरिवान्मिमिक्षन्त्समन्धसा मदेषु वा उवोच ॥४॥


स्वर रहित पद पाठ

उभे इति । चित् । इन्द्र । रोदसी इति । महिऽत्वा । पप्राथ । तविषीभिः । तुविष्मः । नि । वज्रम् । इन्द्रः । हरिऽवान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच ॥