rigveda/7/20/2

हन्ता॑ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती। कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥२॥

हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती । कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊँ॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥

ऋषिः - वसिष्ठः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

हन्ता॑ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती। कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥२॥

स्वर सहित पद पाठ

हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती । कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊँ॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥


स्वर रहित मन्त्र

हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती। कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥२॥


स्वर रहित पद पाठ

हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती । कर्ता । सुऽदासे । अह । वै । ऊँ इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥