rigveda/7/2/6

उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सू॒दुघे॑व धे॒नुः। ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥६॥

उ॒त । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । म॒ही इति॑ । नः॒ । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः । ब॒र्हि॒ऽसदा॑ । पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञिये॑ । सु॒वि॒ताय॑ । श्र॒ये॒ता॒म् ॥

ऋषिः - वसिष्ठः

देवता - आप्रियः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सू॒दुघे॑व धे॒नुः। ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥६॥

स्वर सहित पद पाठ

उ॒त । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । म॒ही इति॑ । नः॒ । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः । ब॒र्हि॒ऽसदा॑ । पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञिये॑ । सु॒वि॒ताय॑ । श्र॒ये॒ता॒म् ॥


स्वर रहित मन्त्र

उत योषणे दिव्ये मही न उषासानक्ता सूदुघेव धेनुः। बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥६॥


स्वर रहित पद पाठ

उत । योषणे इति । दिव्ये इति । मही इति । नः । उषसानक्ता । सुदुघाऽइव । धेनुः । बर्हिऽसदा । पुरुहूते इति पुरुऽहूते । मघोनी इति । आ । यज्ञिये । सुविताय । श्रयेताम् ॥