rigveda/7/19/3

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म्। प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥३॥

त्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् । प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒वः॒ । क्षेत्र॑ऽसाता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥

ऋषिः - वसिष्ठः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म्। प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥३॥

स्वर सहित पद पाठ

त्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् । प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒वः॒ । क्षेत्र॑ऽसाता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥


स्वर रहित मन्त्र

त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम्। प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥


स्वर रहित पद पाठ

त्वम् । धृष्णो इति । धृषता । वीतऽहव्यम् । प्र । आवः । विश्वाभिः । ऊतिऽभिः । सुऽदासम् । प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आवः । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥