rigveda/7/18/12

अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः। वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥१२॥

अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः । वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥

ऋषिः - वसिष्ठः

देवता - इन्द्र:

छन्दः - भुरिक्पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः। वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥१२॥

स्वर सहित पद पाठ

अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः । वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥


स्वर रहित मन्त्र

अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः। वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥१२॥


स्वर रहित पद पाठ

अध । श्रुतम् । कवषम् । वृद्धम् । अप्ऽसु । अनु । द्रुह्युम् । नि । वृणक् । वज्रऽबाहुः । वृणानाः । अत्र । सख्याय । सख्यम् । त्वाऽयन्तः । ये । अमदन् । अनु । त्वा ॥