rigveda/6/8/2

स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत। व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥२॥

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ । वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - वैश्वानरः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत। व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥२॥

स्वर सहित पद पाठ

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ । वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥


स्वर रहित मन्त्र

स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत। व्य१न्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥२॥


स्वर रहित पद पाठ

सः । जायमानः । परमे । विऽओमनि । व्रतानि । अग्निः । व्रतऽपाः । अरक्षत । वि । अन्तरिक्षम् । अमिमीत । सुऽक्रतुः । वैश्वानरः । महिना । नाकम् । अस्पृशत् ॥