rigveda/6/75/7

ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥७॥

ती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाण॒यः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः । अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥

ऋषिः - पायुर्भारद्वाजः

देवता - अश्वाः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥७॥

स्वर सहित पद पाठ

ती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाण॒यः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः । अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥


स्वर रहित मन्त्र

तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः। अवक्रामन्तः प्रपदैरमित्रान् क्षिणन्ति शत्रूँरनपव्ययन्तः ॥७॥


स्वर रहित पद पाठ

तीव्रान् । घोषान् । कृण्वते । वृषऽपाणयः । अश्वाः । रथेभिः । सह । वाजयन्तः । अवऽक्रामन्तः । प्रऽपदैः । अमित्रान् । क्षिणन्ति । शत्रून् । अनपऽव्ययन्तः ॥