rigveda/6/75/2

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम। धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥२॥

धन्व॑ना । गाः । धन्व॑ना । आ॒जिम् । ज॒ये॒म॒ । धन्व॑ना । ती॒व्राः । स॒ऽमदः॑ । ज॒ये॒म॒ । धनुः॑ । शत्रोः॑ । अ॒प॒ऽका॒मम् । कृ॒णो॒ति॒ । धन्व॑ना । सर्वाः॑ । प्र॒ऽदिशः॑ । ज॒ये॒म॒ ॥

ऋषिः - पायुर्भारद्वाजः

देवता - धनुः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम। धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥२॥

स्वर सहित पद पाठ

धन्व॑ना । गाः । धन्व॑ना । आ॒जिम् । ज॒ये॒म॒ । धन्व॑ना । ती॒व्राः । स॒ऽमदः॑ । ज॒ये॒म॒ । धनुः॑ । शत्रोः॑ । अ॒प॒ऽका॒मम् । कृ॒णो॒ति॒ । धन्व॑ना । सर्वाः॑ । प्र॒ऽदिशः॑ । ज॒ये॒म॒ ॥


स्वर रहित मन्त्र

धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम। धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥२॥


स्वर रहित पद पाठ

धन्वना । गाः । धन्वना । आजिम् । जयेम । धन्वना । तीव्राः । सऽमदः । जयेम । धनुः । शत्रोः । अपऽकामम् । कृणोति । धन्वना । सर्वाः । प्रऽदिशः । जयेम ॥