rigveda/6/75/19

यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥१९॥

यः । नः॒ । स्वः । अर॑णः । यः । च॒ । निष्ट्यः॑ । जिघां॑सति । दे॒वाः । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥

ऋषिः - पायुर्भारद्वाजः

देवता - लिङ्गोक्ता सङ्ग्रामाशिषः, देवा ब्रह्म च

छन्दः - विराडनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥१९॥

स्वर सहित पद पाठ

यः । नः॒ । स्वः । अर॑णः । यः । च॒ । निष्ट्यः॑ । जिघां॑सति । दे॒वाः । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥


स्वर रहित मन्त्र

यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति। देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥१९॥


स्वर रहित पद पाठ

यः । नः । स्वः । अरणः । यः । च । निष्ट्यः । जिघांसति । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥