rigveda/6/75/14
ऋषिः - पायुर्भारद्वाजः
देवता - हस्तघ्नः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अहिः॑ऽइव । भो॒गैः । परि॑ । ए॒ति॒ । बा॒हुम् । ज्यायाः॑ । हे॒तिम् । प॒रि॒ऽबाध॑मानः । ह॒स्त॒ऽघ्नः । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । पुमा॑न् । पुमां॑सम् । परि॑ । पा॒तु॒ । वि॒श्वतः॑ ॥
अहिःऽइव । भोगैः । परि । एति । बाहुम् । ज्यायाः । हेतिम् । परिऽबाधमानः । हस्तऽघ्नः । विश्वा । वयुनानि । विद्वान् । पुमान् । पुमांसम् । परि । पातु । विश्वतः ॥