rigveda/6/75/1
ऋषिः - पायुर्भारद्वाजः
देवता - वर्म
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
जी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ । अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥
जीमूतस्यऽइव । भवति । प्रतीकम् । यत् । वर्मी । याति । सऽमदाम् । उपऽस्थे । अनाविद्धया । तन्वा । जय । त्वम् । सः । त्वा । वर्मणः । महिमा । पिपर्तु ॥