rigveda/6/74/3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - सोमारुद्रौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥
सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् । अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत् ॥