rigveda/6/72/4

इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु। ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४॥

इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु । ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्रासोमौ

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु। ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४॥

स्वर सहित पद पाठ

इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु । ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥


स्वर रहित मन्त्र

इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु। जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥४॥


स्वर रहित पद पाठ

इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु । जगृभथुः । अनपिऽनद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति ॥