rigveda/6/7/2

नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त। वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥२॥

नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ । वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - वैश्वानरः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त। वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥२॥

स्वर सहित पद पाठ

नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ । वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥


स्वर रहित मन्त्र

नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त। वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥२॥


स्वर रहित पद पाठ

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आऽहावम् । अभि । सम् । नवन्त । वैश्वानरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥