rigveda/6/69/4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्राविष्णू
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
आ । वा॒म् । अश्वा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । इन्द्रा॑विष्णू॒ इति॑ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ । जु॒षेथा॑म् । विश्वा॑ । हव॑ना । म॒ती॒नाम् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । गिरः॑ । मे॒ ॥
आ । वाम् । अश्वासः । अभिमातिऽसहः । इन्द्राविष्णू इति । सधऽमादः । वहन्तु । जुषेथाम् । विश्वा । हवना । मतीनाम् । उप । ब्रह्माणि । शृणुतम् । गिरः । मे ॥