rigveda/6/68/10

इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता। यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥१०॥

इन्द्रा॑वरुणा । सु॒त॒ऽपौ॒ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृ॒त॒ऽव्र॒ता॒ । यु॒वोः । रथः॑ । अ॒ध्व॒रम् । दे॒वऽवी॑तये । प्रति॑ । स्वस॑रम् । उप॑ । या॒ति॒ । पी॒तये॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्रावरुणौ

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता। यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥१०॥

स्वर सहित पद पाठ

इन्द्रा॑वरुणा । सु॒त॒ऽपौ॒ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृ॒त॒ऽव्र॒ता॒ । यु॒वोः । रथः॑ । अ॒ध्व॒रम् । दे॒वऽवी॑तये । प्रति॑ । स्वस॑रम् । उप॑ । या॒ति॒ । पी॒तये॑ ॥


स्वर रहित मन्त्र

इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता। युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥१०॥


स्वर रहित पद पाठ

इन्द्रावरुणा । सुतऽपौ । इमम् । सुतम् । सोमम् । पिबतम् । मद्यम् । धृतऽव्रता । युवोः । रथः । अध्वरम् । देवऽवीतये । प्रति । स्वसरम् । उप । याति । पीतये ॥