rigveda/6/68/1

श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै। आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥१॥

श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै । आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॑ऽव॒वर्त॑त् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्रावरुणौ

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै। आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥१॥

स्वर सहित पद पाठ

श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै । आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॑ऽव॒वर्त॑त् ॥


स्वर रहित मन्त्र

श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै। आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥१॥


स्वर रहित पद पाठ

श्रुष्टी । वाम् । यज्ञः । उत्ऽयतः । सऽजोषाः । मनुष्वत् । वृक्तऽबर्हिषः । यजध्यै । आ । यः । इन्द्रावरुणौ । इषे । अद्य । महे । सुम्नाय । महे । आऽववर्तत् ॥