rigveda/6/67/9

प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑। न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥९॥

प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ । न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - मित्रावरुणौ

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑। न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥९॥

स्वर सहित पद पाठ

प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ । न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥


स्वर रहित मन्त्र

प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति। न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥९॥


स्वर रहित पद पाठ

प्र । यत् । वाम् । मित्रावरुणा । स्पूर्धन् । प्रिया । धाम । युवऽधिता । मिनन्ति । न । ये । देवासः । ओहसा । न । मर्ताः । अयज्ञऽसाचः । अप्यः । न । पुत्राः ॥