rigveda/6/67/5
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ । परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥
विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । सऽजोषाः । परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः ॥