rigveda/6/63/8
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
पु॒रु । हि । वा॒म् । पु॒रु॒ऽभु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष॑म् । पि॒न्व॒त॒म् । अस॑क्राम् । स्तुतः॑ । च॒ । वा॒म् । मा॒ध्वी॒ इति॑ । सु॒ऽस्तु॒तिः । च॒ । रसाः॑ । च॒ । ये । वा॒म् । अनु॑ । रा॒तिम् । अग्म॑न् ॥
पुरु । हि । वाम् । पुरुऽभुजा । देष्णम् । धेनुम् । नः । इषम् । पिन्वतम् । असक्राम् । स्तुतः । च । वाम् । माध्वी इति । सुऽस्तुतिः । च । रसाः । च । ये । वाम् । अनु । रातिम् । अग्मन् ॥