rigveda/6/58/3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - पूषा
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति । ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥
याः । ते । पूषन् । नावः । अन्तरिति । समुद्रे । हिरण्ययीः । अन्तरिक्षे । चरन्ति । ताभिः । यासि । दूत्याम् । सूर्यस्य । कामेन । कृत । श्रवः । इच्छमानः ॥