rigveda/6/57/3

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ संभृ॑ता। ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥३॥

अ॒जाः । अ॒न्यस्य॑ । वह्न॑यः । हरी॒ इति॑ । अ॒न्यस्य॑ । सम्ऽभृ॑ता । ताभ्या॑म् । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्रापूषणौ

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ संभृ॑ता। ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥३॥

स्वर सहित पद पाठ

अ॒जाः । अ॒न्यस्य॑ । वह्न॑यः । हरी॒ इति॑ । अ॒न्यस्य॑ । सम्ऽभृ॑ता । ताभ्या॑म् । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥


स्वर रहित मन्त्र

अजा अन्यस्य वह्नयो हरी अन्यस्य संभृता। ताभ्यां वृत्राणि जिघ्नते ॥३॥


स्वर रहित पद पाठ

अजाः । अन्यस्य । वह्नयः । हरी इति । अन्यस्य । सम्ऽभृता । ताभ्याम् । वृत्राणि । जिघ्नते ॥