rigveda/6/51/8

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम्। नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥८॥

नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । न॒म॒सा । आ । वि॒वा॒से॒ ॥

ऋषिः - ऋजिश्वाः

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम्। नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥८॥

स्वर सहित पद पाठ

नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । न॒म॒सा । आ । वि॒वा॒से॒ ॥


स्वर रहित मन्त्र

नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम्। नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥८॥


स्वर रहित पद पाठ

नमः । इत् । उग्रम् । नमः । आ । विवासे । नमः । दाधार । पृथिवीम् । उत । द्याम् । नमः । देवेभ्यः । नमः । ईशे । एषाम् । कृतम् । चित् । एनः । नमसा । आ । विवासे ॥