rigveda/6/51/5

द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः। विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥५॥

द्यौः॑ । पितः॑ । पृ॒थि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥

ऋषिः - ऋजिश्वाः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः। विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥५॥

स्वर सहित पद पाठ

द्यौः॑ । पितः॑ । पृ॒थि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥


स्वर रहित मन्त्र

द्यौ३ष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः। विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥५॥


स्वर रहित पद पाठ

द्यौः । पितः । पृथिवि । मातः । अध्रुक् । अग्ने । भ्रातः । वसवः । मृळत । नः । विश्वे । आदित्याः । अदिते । सऽजोषाः । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्त ॥