rigveda/6/51/3

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान्। अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥३॥

स्तु॒षे । ऊँ॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् । अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥

ऋषिः - ऋजिश्वाः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान्। अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥३॥

स्वर सहित पद पाठ

स्तु॒षे । ऊँ॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् । अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥


स्वर रहित मन्त्र

स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान्। अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥३॥


स्वर रहित पद पाठ

स्तुषे । ऊँ इति । वः । महः । ऋतस्य । गोपान् । अदितिम् । मित्रम् । वरुणम् । सुऽजातान् । अर्यमणम् । भगम् । अदब्धऽधीतीन् । अच्छ । वोचे । सऽधन्यः । पावकान् ॥