rigveda/6/5/4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यः । नः॒ । सनु॑त्यः । अ॒भि॒ऽदास॑त् । अ॒ग्ने॒ । यः । अन्त॑रः । मि॒त्र॒ऽम॒हः॒ । व॒नु॒ष्यात् । तम् । अ॒जरे॑भिः । वृष॑ऽभिः । तव॑ । स्वैः । तप॑ । त॒पि॒ष्ठ॒ । तप॑सा । तप॑स्वान् ॥
यः । नः । सनुत्यः । अभिऽदासत् । अग्ने । यः । अन्तरः । मित्रऽमहः । वनुष्यात् । तम् । अजरेभिः । वृषऽभिः । तव । स्वैः । तप । तपिष्ठ । तपसा । तपस्वान् ॥