rigveda/6/5/3

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णाम्। अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥३॥

त्वम् । वि॒क्षु । प्र॒ऽदिवः॑ । सी॒द॒ । आ॒सु । क्रत्वा॑ । र॒थीः । अ॒भ॒वः॒ । वार्या॑णाम् । अतः॑ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒ऽवे॒दः॒ । वसू॑नि ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णाम्। अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥३॥

स्वर सहित पद पाठ

त्वम् । वि॒क्षु । प्र॒ऽदिवः॑ । सी॒द॒ । आ॒सु । क्रत्वा॑ । र॒थीः । अ॒भ॒वः॒ । वार्या॑णाम् । अतः॑ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒ऽवे॒दः॒ । वसू॑नि ॥


स्वर रहित मन्त्र

त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम्। अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥३॥


स्वर रहित पद पाठ

त्वम् । विक्षु । प्रऽदिवः । सीद । आसु । क्रत्वा । रथीः । अभवः । वार्याणाम् । अतः । इनोषि । विधते । चिकित्वः । वि । आनुषक् । जातऽवेदः । वसूनि ॥