rigveda/6/49/11

आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम्। अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥११॥

आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु॑तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् । अ॒चि॒त्रम् । चि॒त् । हि । जिन्व॑थ । वृ॒धन्तः॑ । इ॒त्था । नक्ष॑न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥

ऋषिः - ऋजिश्वाः

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम्। अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥११॥

स्वर सहित पद पाठ

आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु॑तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् । अ॒चि॒त्रम् । चि॒त् । हि । जिन्व॑थ । वृ॒धन्तः॑ । इ॒त्था । नक्ष॑न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥


स्वर रहित मन्त्र

आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम्। अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥११॥


स्वर रहित पद पाठ

आ । युवानः । कवयः । यज्ञियासः । मरुतः । गन्त । गृणतः । वरस्याम् । अचित्रम् । चित् । हि । जिन्वथ । वृधन्तः । इत्था । नक्षन्तः । नरः । अङ्गिरस्वत् ॥