rigveda/6/48/8

विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम्। श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥८॥

विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - अग्निः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम्। श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥८॥

स्वर सहित पद पाठ

विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥


स्वर रहित मन्त्र

विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम्। शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमाः स्तोतृभ्यो ये च ददति ॥८॥


स्वर रहित पद पाठ

विश्वासाम् । गृहऽपतिः । विशाम् । असि । त्वम् । अग्ने । मानुषीणाम् । शतम् । पूःऽभिः । यविष्ठ । पाहि । अंहसः । सम्ऽएद्धारम् । शतम् । हिमाः । स्तोतृऽभ्यः । ये । च । ददति ॥