rigveda/6/48/22

स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत। पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥२२॥

स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ । पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - पृश्निर्वा भूमी वा

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत। पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥२२॥

स्वर सहित पद पाठ

स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ । पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥


स्वर रहित मन्त्र

सकृद्ध द्यौरजायत सकृद्भूमिरजायत। पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥२२॥


स्वर रहित पद पाठ

सकृत् । ह । द्यौः । अजायत । सकृत् । भूमिः । अजायत । पृश्न्याः । दुग्धम् । सकृत् । पयः । तत् । अन्यः । न । अनु । जायते ॥