rigveda/6/48/15
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - मरुतो लिङ्गोक्ता वा
छन्दः - निचृदतिजगती
स्वरः - निषादः
त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वणि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता । सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥
त्वेषम् । शर्धः । न । मारुतम् । तुविऽस्वणि । अनर्वाणम् । पूषणम् । सम् । यथा । शता । सम् । सहस्रा । कारिषत् । चर्षणिऽभ्यः । आ । आविः । गूळ्हा । वसु । करत् । सुऽवेदा । नः । वसु । करत् ॥