rigveda/6/46/14

सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑। आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥१४॥

सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ । आ । ये । वयः॑ । न । वर्वृ॑त॒ति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - इन्द्रः प्रगाथो वा

छन्दः - विराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑। आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥१४॥

स्वर सहित पद पाठ

सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ । आ । ये । वयः॑ । न । वर्वृ॑त॒ति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥


स्वर रहित मन्त्र

सिन्धूँरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि। आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि ॥१४॥


स्वर रहित पद पाठ

सिन्धून्ऽइव । प्रवणे । आशुऽया । यतः । यदि । क्लोशम् । अनु । स्वनि । आ । ये । वयः । न । वर्वृतति । आमिषि । गृभीताः । बाह्वोः । गवि ॥