rigveda/6/45/28
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - गायत्री
स्वरः - षड्जः
इ॒माः । ऊँ॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ । व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥
इमाः । ऊँ इति । त्वा । सुतेऽसुते । नक्षन्ते । गिर्वणः । गिरः । वत्सम् । गावः । न । धेनवः ॥