rigveda/6/44/5

यं व॒र्धय॒न्तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः। तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥५॥

यम् । व॒र्धय॑न्ति । इत् । गिरः॑ । पति॑म् । तु॒रस्य॑ । राध॑सः । तम् । इत् । नु । अ॒स्य॒ । रोद॑सी॒ इति॑ । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - स्वराडुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

यं व॒र्धय॒न्तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः। तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥५॥

स्वर सहित पद पाठ

यम् । व॒र्धय॑न्ति । इत् । गिरः॑ । पति॑म् । तु॒रस्य॑ । राध॑सः । तम् । इत् । नु । अ॒स्य॒ । रोद॑सी॒ इति॑ । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ॥


स्वर रहित मन्त्र

यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः। तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥५॥


स्वर रहित पद पाठ

यम् । वर्धयन्ति । इत् । गिरः । पतिम् । तुरस्य । राधसः । तम् । इत् । नु । अस्य । रोदसी इति । देवी इति । शुष्मम् । सपर्यतः ॥