rigveda/6/44/22

अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत्। अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥२२॥

अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् । अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत्। अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥२२॥

स्वर सहित पद पाठ

अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् । अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥


स्वर रहित मन्त्र

अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत्। अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥२२॥


स्वर रहित पद पाठ

अयम् । देवः । सहसा । जायमानः । इन्द्रेण । युजा । पणिम् । अस्तभायत् । अयम् । स्वस्य । पितुः । आयुधानि । इन्दुः । अमुष्णात् । अशिवस्य । मायाः ॥