rigveda/6/44/18
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ॒सु । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । पृ॒त्ऽसु । अ॒स्मभ्य॑म् । महि॑ । वरि॑वः । सु॒ऽगम् । क॒रिति॑ कः । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । इन्द्र॑ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥
आसु । स्म । नः । मघऽवन् । इन्द्र । पृत्ऽसु । अस्मभ्यम् । महि । वरिवः । सुऽगम् । करिति कः । अपाम् । तोकस्य । तनयस्य । जेषे । इन्द्र । सूरीन् । कृणुहि । स्म । नः । अर्धम् ॥