rigveda/6/44/15

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः। गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥१५॥

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः। गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥१५॥

स्वर सहित पद पाठ

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥


स्वर रहित मन्त्र

पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः। गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥१५॥


स्वर रहित पद पाठ

पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । हन्ता । वृत्रम् । वज्रेण । मन्दसानः । गन्ता । यज्ञम् । पराऽवतः । चित् । अच्छ । वसुः । धीनाम् । अविता । कारुऽधायाः ॥