rigveda/6/44/14

अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान। तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥१४॥

अ॒स्य । मदे॑ । पु॒रु । वर्पां॑सि । वि॒द्वान् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घा॒न॒ । तम् । ऊँ॒ इति॑ । प्र । हो॒षि॒ । मधु॑ऽमन्तम् । अ॒स्मै॒ । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ । पिब॑ध्यै ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान। तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥१४॥

स्वर सहित पद पाठ

अ॒स्य । मदे॑ । पु॒रु । वर्पां॑सि । वि॒द्वान् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घा॒न॒ । तम् । ऊँ॒ इति॑ । प्र । हो॒षि॒ । मधु॑ऽमन्तम् । अ॒स्मै॒ । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ । पिब॑ध्यै ॥


स्वर रहित मन्त्र

अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान। तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥१४॥


स्वर रहित पद पाठ

अस्य । मदे । पुरु । वर्पांसि । विद्वान् । इन्द्रः । वृत्राणि । अप्रति । जघान । तम् । ऊँ इति । प्र । होषि । मधुऽमन्तम् । अस्मै । सोमम् । वीराय । शिप्रिणे । पिबध्यै ॥