rigveda/6/4/7

त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने। इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥७॥

त्वाम् । हि । म॒न्द्रऽत॑मम् । अ॒र्क॒ऽशो॒कैः । व॒वृ॒महे॑ । महि॑ । नः॒ । श्रोषि॑ । अ॒ग्ने॒ । इन्द्र॑म् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॒ण॒न्ति॒ । राध॑सा । नृऽत॑माः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने। इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥७॥

स्वर सहित पद पाठ

त्वाम् । हि । म॒न्द्रऽत॑मम् । अ॒र्क॒ऽशो॒कैः । व॒वृ॒महे॑ । महि॑ । नः॒ । श्रोषि॑ । अ॒ग्ने॒ । इन्द्र॑म् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॒ण॒न्ति॒ । राध॑सा । नृऽत॑माः ॥


स्वर रहित मन्त्र

त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने। इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥७॥


स्वर रहित पद पाठ

त्वाम् । हि । मन्द्रऽतमम् । अर्कऽशोकैः । ववृमहे । महि । नः । श्रोषि । अग्ने । इन्द्रम् । न । त्वा । शवसा । देवता । वायुम् । पृणन्ति । राधसा । नृऽतमाः ॥