rigveda/6/31/1
ऋषिः - सुहोत्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः । वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विवा॑चः ॥
अभूः । एकः । रयिऽपते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः । वि । तोके । अप्ऽसु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विवाचः ॥