rigveda/6/29/2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः । आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥
आ । यस्मिन् । हस्ते । नर्याः । मिमिक्षुः । आ । रथे । हिरण्यये । रथेऽस्थाः । आ । रश्मयः । गभस्त्योः । स्थूरयोः । आ । अध्वन् । अश्वासः । वृषणः । युजानाः ॥