rigveda/6/24/9

ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न्। स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥९॥

ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् । स्थाः । ऊँ॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न्। स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥९॥

स्वर सहित पद पाठ

ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् । स्थाः । ऊँ॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥


स्वर रहित मन्त्र

गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान्। स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥९॥


स्वर रहित पद पाठ

गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतऽपावन् । वाजान् । स्थाः । ऊँ इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाम् ॥