rigveda/6/24/5

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑। मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥५॥

अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊँ॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ । च॒क्रिः । इन्द्रः॑ । मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑। मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥५॥

स्वर सहित पद पाठ

अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊँ॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ । च॒क्रिः । इन्द्रः॑ । मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥


स्वर रहित मन्त्र

अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः। मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥५॥


स्वर रहित पद पाठ

अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊँ इति । श्वः । असत् । च । सत् । मुहुः । आ । चक्रिः । इन्द्रः । मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिऽएता । अस्ति ॥