rigveda/6/24/4

शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः। व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥४॥

शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः । व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः। व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥४॥

स्वर सहित पद पाठ

शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः । व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥


स्वर रहित मन्त्र

शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः। वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥४॥


स्वर रहित पद पाठ

शचीऽवतः । ते । पुरुऽशाक । शाकाः । गवाम्ऽइव । स्रुतयः । सम्ऽचरणीः । वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्ऽवन्तः । अदामानः । सुऽदामन् ॥